विकिपुस्तक से
नेविगेशन पर जाएँ खोज पर जाएँ
← हिंदी-संस्कृत परिच्छेद अनुवाद · संस्कृत-हिंदी परिच्छेद अनुवाद →
- 2. अन्यायं कुरुते यदा क्षितिपतिः कस्तं निरोद्धुं क्षमः?
- 3. रामः भृत्येन कार्यं कारयति।
- 4. यावत्यास्यन्ति गिरयः सरितश्च महीतले तावद्रामायणकथा लोकेषु प्रचरिष्यति।
- 5. लंकातो निवर्तमानं रामं भरतः प्रत्युज्जगाम।
- 6. इयं कथा मामेव लक्षीकरोति।
- 7. मनो में संशयमेव गाहते।
- 8. कालस्य कुटिला गतिः।
- 9. नियमपूर्वकं विधीयमानो व्यायामो हि फलप्रदो भवति।
- 10. अल्पीयांस एव जना धर्मं प्रति बद्धादरा दृश्यन्ते।
- 11. यथा अपवित्रस्थानपतितं सुवर्ण न कोऽपि परित्यजति तथैव स्वस्मात् नीचादपि विद्या अवश्यं ग्राह्या।
- 12. गङ्गायां स्नानाय श्री विश्वानाथस्य दर्शनाय च सदैव भिन्न-भिन्न प्रदेशेभ्यः जनाः वाराणसीम् आगच्छन्ति।
- 13. चरित्र निर्माणे संसर्गस्यापि महान् प्रभावो भवति, संसर्गात् सज्जना अपि बालकाः दुर्जनाः भवन्ति दुर्जनाश्च सज्जनाः।
- 14. मनुष्याणां सुखाय समुन्नतये च यानि कार्याणि आवश्यकानि सन्ति तषु सर्वतोऽधिकम् आवश्यकं कार्यं स्वास्थ्यरक्षा अस्ति।
- 15. प्राचीनकाले एतादृशा बहवो गुरुभक्ता बभूवः येषामुपारव्यायनं श्रुत्वा पठित्वा च महदाश्चर्यं जायते।
- 16. नाम्ना स सज्जनः परन्तु कर्म्मणा दुर्जनः।
- 17. एकदा कस्मिंश्चिद्वने अटन् एकः सिंहः श्रान्तो भूत्वा निद्रां गतः।
- 18. सः सर्वेषां मूर्ध्नि तिष्ठति।
- 19. मम द्रव्यस्य कथं त्वया विनियोगः कृतः?
- 20. इति लोकवादः न विसंवादमासादयति।
- 21. राजा युगपत् बहुभिररिभिर्न युध्येत्, यतः समवेताभिर्बह्नीभिः पिपीलिकाभिः बलवानपि सर्पः विनाश्यते।
- 22. प्राज्ञो हि स्वकार्यसम्पादनाय रिपूनपि स्वस्कन्धेन वहेत्। मानवाः दहनार्थमेव शिरसा काष्ठानि वहन्ति।
- 23. कियत्कालम् उत्सवोऽयं स्थास्यति? अपि जानासि अत्र का किंवदन्ती?
- 24. तद् भीषणं दृश्यमवलोक्य तस्याः पाणिपादं कम्पितुमारेभे।
- 25. तेषां कांश्चिद् दोषानन्तरेणापि ते सन्देहास्पदं बभूवुः।
- 26. मुहूर्तेन धारासारैर्महती वृष्टिबर्भूव। नभश्च जलधरपटलैरावृतम्।
- 27. सचचिवो राजपुत्रः सरस्तीरे विशालं महीरुहम पश्यत्, अगणिता यस्य शाखा भुजवत् प्रतिभान्ति स्म।
- 28. न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डावलेश्मनः।
- 29. ये समुदाचारमुच्चरन्ते तेऽवगीयन्ते।
- 30. राजा महीपालः हस्तिनमारुह्य बहूनि वनानि भ्रमित्वा स्वमेव द्वीपं प्रतिगच्छति स्म।
- 31. यदाहं तव भाषितं परिभावयामि तदा नात्र बहुगुणं विभावयामि।
- 32. अचिरमेव स वियोगव्यथाम् अनुभविष्यति।
- 33. युक्तमेव कथयति भवान् नाहं भवतस्तर्के दोषं विभावयामि।
- 34. ये शरीरस्थान् रिपून् अधिकुर्वते ते नाम जयिनः।
- 35. विद्या सर्वेषु धनेषु श्रेष्ठमस्ति यतो हि विद्यैव व्यये कृते वर्धते। अन्यद् धनं व्यये कृते क्षयं प्राप्नोति।
- 36. महात्मनो गांधिमहोदयस्य संरक्षणे अहिंसा शस्त्रेणैव भारतवर्षं पराधीनतापाशं छित्वा स्वतन्त्रतामलभत।
- 37. ब्रह्मचर्य वेदेऽपि महिमा वर्णितोऽस्ति यद् ब्रह्मचर्यस्य सदाचारस्य वा महिम्ना देवा मृत्युमपि स्ववशेऽकुर्वन।
- 38. गुरुभक्त्यैव आरुणिः ब्रह्मज्ञः सञ्जातः, एकलव्यश्च महाधनुर्धरो जातः।
- 39. आविर्भूते शशिनि अन्धकारस्तिरोऽभूत्।
- 40. अयं मल्लः अन्यस्मै मल्लाय प्रभवति।
- 41. गुणा विनयेन शोभन्ते।
- 42. सत्यस्य पालनार्थमेव महाराजो दशरथः प्रियं पुत्रं रामं वनं प्रैषयत्।
- 43. एकमेवार्थमनुलपसि, न चान्यं श्रृणोषि।
- 44. पूर्वं स त्वां सम्पत्तिं बन्धकेऽददात् साम्प्रतं ऋणशोधनेऽक्षमतामुद्घोषयति।
- 45. मज्जतो हि कुशं वा काशं वाऽवलम्बनम्।
- 46. गोपालस्तथा वेगेन कन्दुकं प्राहरत् यथाऽऽदर्शः परिस्फुट्य खण्डशोऽभूत्।
- 47. चिरंविप्रोषितो रुग्णश्चासौ तथा परिवृत्तो यथा परिचेतुं न शक्यः।
- 48. यद्यसौ संतरणकौशलम् अज्ञास्यत् तर्हि जलात् नाभेष्यत्।
- 49. वृक्षम् आरुह्य असौ सुगन्धिपुष्पसंभारां क्षुद्रशाखां बभञ्ज।
- 50. केन साधारणीकरोमि दुःखम्?
- 51. निद्राहारौ नियमात्सुखदौ।
- 52. बुभुक्षितं न प्रतिभाति किञ्चत्।
- 53. शनैः शनैश्च भोक्तव्यं स्वयं वित्तमुपार्जितम्।
- 54. विषयप्यमृतं क्वचिद् भवेदमृतं वा विषमीश्वरेच्छया।
- 55. अङ्गारः शतधौतेन मलिनत्वं न मुञ्चति।
- 56. अतीत्य हि गुणान्सर्वान् स्वभावो मूर्ध्नि तिष्ठति।
- 57. भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति।
- 58. सर्वत्र विजयमिच्छेत् पुत्रात् शिष्यात् पराभवम्।
- 59. स्थानभ्रष्टा न शोभन्ते दन्ताः, केशाः, नखाः, नराः।
- 60. सर्वस्य जन्तोर्भवति प्रमोदो विरोधिवर्गे परिभूयमाने।
- 61. यद्यपि शुद्धं लोकविरुद्धं नाचरणीयम्।
- 62. रिक्तपाणिर्न पश्येत् राजानं देवतां गुरुम्।
- 63. यथा हि कुरुते राजा प्रजास्तमनुवर्तते।
- 64. ये गर्जन्ति मुहुर्मुहुर्जलधरा वर्षन्ति नैतादृशाः।
- 65. धर्मं जिज्ञासमानानां प्रमाणं परमं श्रृतिः।
- 66. यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्।
- 67. मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
- 68. लिखितमपि ललाटे प्रोज्झितुं कः समर्थः?
- 69. लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
- 70. सन्तोषेण विना पराभवपदं प्राप्नोति सर्वो जनः।
तुम सांप से डरते हो का संस्कृत क्या होगा?
इसका संस्कृत अनुवाद क्या होगा ? वह साँप से डरता है। संस्कृत अनुवाद : सः सर्पात् विभेति।
सांप से कौन नहीं डरता in Sanskrit?
Answer: कः सर्पात् न बिभेति?
सांप का संस्कृत शब्द क्या है?
संस्कृत में, एक नागा (नाग) एक कोबरा, भारतीय कोबरा ( नाजा नाजा) है। नागा का एक पर्यायवाची फणिन है। सामान्य तौर पर "साँप" के लिए कई शब्द हैं, और सबसे अधिक इस्तेमाल किए जाने वाले शब्दों में से एक सर्पा (सर्प) है। कभी-कभी नागा शब्द का प्रयोग सामान्य रूप से "साँप" के अर्थ में भी किया जाता है।
हिंदी से संस्कृत में अनुवाद कैसे करें?
जब हम हिन्दी से संस्कृत में अनुवाद करते है, तब कर्ता और क्रिया दोनों ही - एक ही वचन तथा एक ही काल, एक ही पुरुष, एक ही पद के होना चाहिये। यदि कर्ता एक वचन है तो पुरुष भी एक वचन और क्रिया भी एक ही वचन की होगी। इस प्रकार अहम् गच्छामि, दोनों एक वचन है, एक ही पुरुष है उत्तम पुरुष। मै जाता हूँ ।